|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.82. अध्यायः 082
Mahabharata - Adi Parva - Chapter Topics
स्वर्गतो ययातेः पतनं। अष्टकप्रश्नश्च॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
इन्द्र उवाच। 1-82-0x(491)(3682)
सर्वाणि कर्माणि समाप्य राजन्
गृहं परित्यज्य वनं गतोऽसि।
तत्त्वां पृच्छामि नहुषस्य पुत्र
केनासि तुल्यस्तपसा ययाते॥ 1-82-1(3683)
ययातिरुवाच। 1-82-2x(492)
नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु।
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव॥ 1-82-2(3684)
इन्द्र उवाच। 1-82-3x(493)
यदाऽवमंस्थाः सदृशः श्रेयसश्च
अल्पीयसश्चाविदितप्रभावः।
तस्माल्लोकास्त्वन्तवन्तस्तवे मे
क्षीणे पुण्ये पतिताऽस्यद्य राजन्॥ 1-82-3(3685)
ययातिरुवाच। 1-82-4x(494)
सुरर्षिगन्धर्वनरावमाना-
त्क्षयं गता मे यदि शक्रलोकाः।
इच्छाम्यहं सुरलोकाद्विहीनः
सतां मध्ये पतितुं देवराज॥ 1-82-4(3686)
इन्द्र उवाच। 1-82-5x(495)
सतां सकाशे पतिताऽसि राजं-
श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः।
एतद्विदित्वा च पुनर्ययाते
त्वं माऽवमंस्थाः सदृशः श्रेयसश्च॥ 1-82-5(3687)
वैशम्पायन उवाच। 1-82-6x(496)
ततः प्रहायामरराजजुष्टा-
न्पुण्याँल्लोकान्पतमानं ययातिम्।
संप्रेक्ष्य राजर्षिवरोऽष्टकस्त-
मुवाच सद्धर्मविधानगोप्ता॥ 1-82-6(3688)
अष्टक उवाच। 1-82-7x(497)
कस्त्वं युवा वासवतुल्यरूपः
स्वतेजसा दीप्यमानो यथाऽग्निः।
पतस्युदीर्णाम्बुधरान्धकारा-
त्खात्खेचराणां प्रवरो यथाऽर्कः॥ 1-82-7(3689)
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं
वैश्वानरार्कद्युतिमप्रमेयम्।
किं नु स्विदेतत्पततीति सर्वे
वितर्कयन्तः परिमोहिताः स्मः॥ 1-82-8(3690)
दृष्ट्वा च त्वां धिष्ठितं देवमार्गे
शक्रार्कविष्णुप्रतिमप्रभावम्।
अभ्युद्गतास्त्वां वयमद्य सर्वे
तत्त्वं प्रपाते तव जिज्ञासमानाः॥ 1-82-9(3691)
न चापि त्वां धृष्णुमः प्रष्टुमग्रे
न च त्वमस्मान्पृच्छसि ये वयं स्मः।
तत्त्वां पृच्छामि स्पृहणीयरूप
कस्य त्वं वा किंनिमित्तं त्वमागाः॥ 1-82-10(3692)
भयं तु ते व्येतु विषादमोहौ
त्यजाशु चैवेन्द्रसमप्रभाव।
त्वां वर्तमानं हि सतां सकाशे
नालं प्रसोढुं बलहाऽपि शक्रः॥ 1-82-11(3693)
सन्तः प्रतिष्ठा हि सुखच्युतानां
सतां सदैवामरराजकल्प।
ते सङ्गताः स्थावरजङ्गमेशाः
प्रतिष्ठितस्त्वं सदृशेषु सत्सु॥ 1-82-12(3694)
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः।
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः॥ ॥ 1-82-13(3695)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्व्यशीतितमोऽध्यायः॥ 82 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-82-3 अवमंस्थाः सर्वेभ्य आत्मन आधिक्योक्त्या। सदृशः सदृशान्॥ 1-82-5 यत्र पतिता प्रतिष्ठां लब्धासि लप्स्यसि॥ 1-82-10 धुष्णुमः प्रगल्भामहे॥ 1-82-13 आवपने संग्रहे बीजावापे वा॥ द्व्यशीतितमोऽध्यायः॥ 82 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|